|
|
 |
 |
|
|
६ भीष्मपर्व.jpg)
॥ श्रीः ॥
6.80. अध्यायः 080
Mahabharata - Bhishma Parva - Chapter Topics
भीष्मदुर्योधनसंवादः ॥ 1 ॥

Mahabharata - Bhishma Parva - Chapter Text
सञ्जय उवाच। 6-80-0x(4155)(42231)
क्षत्रियास्ते महाराज परस्परकृतागसः।
जग्मुः स्वशिबिराण्येव रुधिरेण समुक्षिताः ॥ 6-80-1(42232)
विश्रम्य च यथान्यायं पूजयित्वा परस्परम् ।
सन्नद्धाः समदृश्यन्त भूयो युद्धचिकीर्षवः ॥ 6-80-2(42233)
ततस्तव सुतो राजंश्चिन्तयाभिपरिप्लुतः ।
विस्रवच्छोणिताक्ताङ्गः पप्रच्छेदं पितामहम् ॥ 6-80-3(42234)
सैन्यानि रौद्राणि भयानकानि
व्यूढानि सम्यग्बहुलध्वजानि।
विदार्य हत्वा च निपीड्य शूरां-
स्ते पाण्डवा लब्धजयाः प्रहृष्टाः ॥ 6-80-4(42235)
संमोह्य सर्वान्युधि कीर्तिमन्तो
व्यूहं च तं मकरं मृत्युकल्पम् ।
प्रविश्य भीमेन रणे हतोऽस्मि
घोरैः शरैर्मृत्युदण्डप्रकाशैः ॥ 6-80-5(42236)
क्रुद्धं तमुद्वीक्ष्य भयेन राज-
न्संमूर्च्छितो न लभे शान्तिमद्य ।
इच्छे प्रसादात्तव सत्यसन्ध
प्राप्तुं जयं पाण्डवेयांश्च हन्तुम् ॥ 6-80-6(42237)
तेनैवमुक्तः प्रहसन्महात्मा
दुर्योधनं मन्युगतं विदित्वा।
तं प्रत्युवाचाविमना मनस्वी
गङ्गासुतः सस्त्रभृतां वरिष्ठः ॥ 6-80-7(42238)
परेण यत्नेन विगाह्य सेनां
सर्वात्मनाऽहं तव राजपुत्र।
इच्छामि दातुं विजयं सुखं च
न चात्मानं छादयेऽहं त्वदर्थे ॥ 6-80-8(42239)
एते तु रौद्रा बहवो महारथा
यशस्विनः शूरतमाः कृतास्त्राः ।
ये पाण्डवानां समरे सहाया
जितक्लमा रोषविषं वमन्ति ॥ 6-80-9(42240)
केनेह शक्याः सहसा विजेतुं
वीर्योद्धताः कृतवैरास्त्वया च।
अहं ह्येतान्प्रतियोत्स्यामि राज-
न्सर्वात्मना जीवितं त्यज्य वीर ॥ 6-80-10(42241)
रणे तवार्थाय महानुभाव
न जीवितं रक्षितव्यं ममाद्य।
सर्वांस्तवार्थाय सदेवदैत्याँ-
ल्लोकान्दहेयं किमु शत्रुसेनाम् ॥ 6-80-12aतान्पाण्डवान्योधयिष्यामि राजन्
प्रियं च ते सर्वमहं करिष्ये। 6-80-11(42242)
सञ्जय उवाच।
श्रुत्वा पितुस्ते वचनं प्रतीतो
दुर्योधनः प्रीतमना बभूव ॥ 6-80-12x(4156)
सर्वाणि सैन्यानि ततः प्रहृष्टो
निर्गच्छतेत्याह नृपांश्च सर्वान्।
तदाक्षया तानि विनिर्ययुर्द्रुतं
गजाश्वपादातरथायुतानि ॥ 6-80-13(42243)
प्रहर्षयुक्तानि तु तानि राज-
न्महान्ति नानाविधशस्त्रवन्ति।
स्थितानि नागाश्वपदातिमन्ति
विरेजुराजौ तव राजन्बलानि ॥ 6-80-14(42244)
शस्त्रास्त्रविद्भिर्नरवीरयोधै-
रधिष्ठिताः सैन्यगणास्त्वदीयाः।
रथौघपादातगजाश्वसङ्घैः
प्रयाद्भिराजौ विधिवत्प्रणुन्नैः ॥ 6-80-15(42245)
समुद्धतं वै तरुणार्कवर्णं
रजो बभौ च्छादयत्सूर्यश्मीन्।
रेजुः पताका रथदन्तिसंस्था
वातेरिता भ्राम्यमाणाः समन्तात् ॥ 6-80-16(42246)
नानालिङ्गैः समरे तत्र राजन्
मेघैर्युता विद्युतः खे यथैव।
वृन्दैः स्थिताश्चापि सुसंप्रयुक्ता-
श्चकाशिरे दन्तिगणाः समन्तात् ॥ 6-80-17(42247)
धनूंषि विष्फारयतां नृपाणां
बभूव शब्दस्तुमुलोऽतिघोरः।
विमथ्यतो देवमहासुरौघै-
र्यथार्णवस्यादियुगे तदानीम् ॥ 6-80-18(42248)
तदुग्रनागं बहुरूपवर्णं
तवात्मजानां समुदीर्णकोपम् ।
बभूव सैन्यं रिपुसैन्यहन्त-
युगान्तमेघौघनिभं तदानीम् ॥ ॥ 6-80-19(42249)
इति श्रीमन्महाभारते भीष्मपर्वणि भीष्मवधपर्वणि सप्तमदिवसयुद्धे अशीतितमोऽद्यायः ॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|